43b ययोः । रूपके तु तत्त्वारोप इत्यसङ्करः । अत एव वक्ष्यति—उपमैव तिरोभूतभेदा रूपकमिष्यते ॥72 इति । सा सादृश्योक्तिरुपमानामालंक्रिया वेदितव्या । उपमितिः साधर्म्यकथनमुपमेति कृत्वा । तस्या एवंलक्षणायाः अयं प्रस्तुतः प्रपञ्चः विचित्रः प्रभेदः प्रदर्श्यते उदाह्रियते ॥

अम्भोरुहांमवाताम्रं मुग्धे करतलं तव ।
इति धर्मोपमा साक्षात् तुल्यधर्मनिदर्शनात् ॥ १५ ॥

मुग्धे बाले ! प्रियामन्त्रण[मेतत् ।] तव करतलं हस्तोपरिभागः आताम्रमरुणम् । किमिव ? अम्भोरुहमिव कमलमिव इतीयमेवंजातीया धर्मोपमा ज्ञेया । कुतः ? करतलाम्भोरुहयोर्द्वयोः समानस्य धर्मस्य गुणस्याताम्रलक्षणस्य निदर्शनात् प्रतिपादनात् कारणात् । कथम् ? साक्षाद्वाचकव्यापारेणाताम्रपदप्रयोगात्, न त्वर्थात् । ततः शब्दोपात्तत्वात् साधारणस्य धर्मस्य । तेनैवेयं व्यपदिश्यते नान्यथा, तथा विवक्षितत्वात् ॥

राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव ।
इयं प्रतीयमानैकधर्मा वस्तूपमैव सा ॥ १६ ॥

ते तव वक्त्रं मुखं राजीवमिव पद्ममिव, नेत्रे चक्षुषी नीलोत्पले इवेति एवंविधा या सा वस्तूपमैव । धर्मिण एव साक्षादादानात् । तेनैवं व्यपदिश्यते । न धर्मेण तस्य साक्षादग्रहणात् । कथं तर्हि तदवसाय इत्याह—प्रतीयमानेत्यादि । प्रतीयमानस्य उपात्तस्य वस्तुनो राजीवादेस्तदव्यभिचारादर्थाद् गम्यमान एकः समानो धर्मः कान्त्यादिलक्षणो गुणो यस्याः । सेयमीदृशी वस्तूपमेति प्रकृतम् ॥

त्वदाननमिवोन्निद्रमरविन्दमभूदिति ।
सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते ॥ १७ ॥

  1. २.६६