49a । पाणिरेव पद्मं चरण एव पल्लवमित्यभेदाध्यासः पूर्ववदिति ॥
हे वसन्तश्रीः कुसुमागमलक्ष्मीः ! त्वं भवती नः अस्माकम् प्रत्यक्षेऽर्थसाक्षात्कारिणि ज्ञाने चरसि प्रतिभासि । न परोक्षवर्तिनी । प्रत्यक्षं यथा भवति तथा चरसीति क्रियाविशेषणोपपदाद्वा क्रियार्थाद्विधिः । कथयामि तावत् पल्लवानि किसलयसम्पदस्तानि ताम्रतादेस्तवाङ्गुल्य आसन् अभूवन् अदृश्यन्त इति यावत् । यानि चेमानि पल्लवसङ्गतानि कुसुमानि तानि तव नखार्चिषः कररुहरुचयः शौक्ल्यादिना, लते च द्वे विवक्षिंते केचित् तव बाहु[भूते] मार्दवादेः । इति प्रत्यक्षाङ्गत्वात् त्वं नश्चाक्षुषी । यद्वा, वराङ्गि ! प्र[त्यक्ष]चारिणी वसन्तश्रीस्त्वमेवास्माकम्, किमन्यया अप्रत्यक्षया । यास्तवाङ्गुल्य[स्ताः] पल्लवान्यासन् । नखार्चिषश्च कुसुमानि । बाहू ते लते । ततस्त्वं नश्चाक्षुषी प्रत्यक्षा वसन्तश्रीः । शेषं पूर्ववत् ॥
किं नामेदं व्यवह्रियत इत्याह—
इत्येतदीदृशम् अस[म]स्तमित्याख्या संज्ञा यस्येत्यसमस्ताख्यं व्यस्तं नाम रूपकं प्रतिपत्तव्यम्, उपमानोपमेयरोरकृतसमासत्वात् । यत्र समासः । तत् किमाख्यायते ? पूर्वरूपकं बाहू लतेत्यादि । कृतसमासं प्रथममुदाहरणम् । समस्तं तादृशं वेदितव्यम्, समासयोगात् । मुखमिवेन्दुर्मुखेन्दुरिति समस्तम् । स्मितं लीलाहसितं ज्योत्स्ना चन्द्रिकेति व्यस्तम् । अतश्च समस्तं तद् व्यस्तं चेति समस्तव्यस्तं नामेदृशं रूपकमवगन्तव्यमिति ॥