51a चन्द्रमा मुख्यः पीयते देवैरमृतमयत्वात् पर्यायेण सुरैः चन्द्रः पीयते यतः क्रमेणापचीयत इति श्रुतेः । अत एवासमग्रोऽप्यसौ मुख्यश्चन्द्रः । न केवलं समग्र एवेत्यपिशब्दः । मया तव मुखचन्द्रमाः पीयते निषेव्यते । तथाप्ययं तव मुखचन्द्रमाः आपूर्णमखण्डं मण्डलं यस्येत्यापूर्णमण्डलः शश्वत् अनवरतं न कदाचित् अन्यथेति गौणमुख्ययोर्वैधर्म्यात् व्यतिरेकरूपकमिदमीदृशमिति ॥

मुखचन्द्रस्य चन्द्रत्वमित्थमन्योपतापिनः ।
न ते सुन्दरि ! संवादीत्येतदाक्षेपरूपकम् ॥ ९१ ॥

सुन्दरि ! तव मुखचन्द्रस्येत्थमेवमिति आत्मसंवेद्यतामुपतापस्य दर्शयति । अन्यमिमं जनमुपतापयतः । परमुखेन आत्मानमाह—चन्द्रत्वं न संवादि न यथार्थमेकान्तशीतत्वाच्चन्द्रस्यास्य च तद्विपरीतत्वात् । इतीदृशं चन्द्रत्वनिषेधादाक्षेपरूप[क]मवसेयमिति ॥

मुखेन्दुरपि ते चण्डि ! मां निर्दहति निर्दयम् ।
भाग्यदोषो ममैवेति तत् समाधानरूपकम् ॥ ९२ ॥

चण्डि निर्दये ! एकान्तप्रीतिकरः तव मुखेन्दुः अतिनिर्दयम् अत्यर्थं मां निर्दहति । नैतद्युज्यत इत्ययोगमपिशब्दः सूचयति । न केवलम् इन्दुरिंति वा [अपि] शब्दः समुच्चिनोति । अथवा किं न युज्यते ? संभाव्यते सर्वमीदृशमपि भाग्यपरावृत्तौ, यदाह—भाग्यदोषो ममैव इति ममैवायं भाग्यदोषः अभाग्यं यदेवं भवति । न तव मुखचन्द्रस्यायं दोषः । इत्येवंरूपं यत् तदीदृशं समाधानरूपकमित्थं समाधानाभिधानादिति ॥

मुखपङ्कजरङ्गेऽस्मिन् भ्रूलता नर्तकी तव ।
लीलानृत्तं करोतीति रस्यं रूपकरूपकम् ॥ ९३ ॥

सुन्दरि ! तव भ्रूलता लोलतादिना । सा च नर्तकी चित्तहरत्वादिना लीलाप्रधानं शृङ्गारमयं नृत्तं वर्णितरूपं करोति । कुत्र ? मुखं पङ्कजं कान्त्यादिना तच्च रङ्गो