मुखपङ्कजरङ्गेऽस्मिन् भ्रूलता नर्तकी तव ।
लीलानृत्तं करोतीति रस्यं रूपकरूपकम् ॥ ९३ ॥

सुन्दरि ! तव भ्रूलता लोलतादिना । सा च नर्तकी चित्तहरत्वादिना लीलाप्रधानं शृङ्गारमयं नृत्तं वर्णितरूपं करोति । कुत्र ? मुखं पङ्कजं कान्त्यादिना तच्च रङ्गो94 नृत्यभूमिः । तत्रास्मिन्नितिं प्रत्यक्षवर्तिनि । ईदृशं रूपकरूपकं रम्यं मनोज्ञं लतीकृतायाः भ्रुवो नर्तकीकरणात् पङ्कजीकृतस्य च मुखस्य सङ्गीकृतेरिति ॥