94 नृत्यभूमिः । तत्रास्मिन्नितिं प्रत्यक्षवर्तिनि । ईदृशं रूपकरूपकं रम्यं मनोज्ञं लतीकृतायाः भ्रुवो नर्तकीकरणात् पङ्कजीकृतस्य च मुखस्य सङ्गीकृतेरिति ॥

नैतन्मुखमिदं पद्मं न नेत्रे भ्रमराविमौ ।
एतानि केसराण्येव नैता दन्तार्चिषस्तव ॥ ९४ ॥

तव एतत् मुखं न भवति । किं तर्हि पद्मम् इदम् । एते च अत्र नेत्रे न भवतः । किं तर्हि ? भ्रमराविमौ । एताश्च दन्तार्चिषो न भवन्ति किं तु केसराण्येतानि इति ॥

तद् व्याचष्टे—

मुखादित्वं निवत्यव पद्मादित्वेन रूपणात् ।
उद्भावितगुणोत्वकर्षं तत्त्वापह्नवरूपकम् ॥ ९५ ॥

मुखमादिर्यस्य नेत्रादेः तस्य भावः । तत्त्वम् । तद् विनिवर्त्यैव अपहृत्यैव । न तु मुखादिकमेवैतत् पद्मादिकमिति तत्त्वम्