53b मारुतैरुद्धूता विकीर्णाः शीकरा जलकणा येषां येरिति वा विग्रहः । घमेस्य तु निदाघस्य पुनः अवलेपं कर्षयन्ति कृ[शं कुर्व]न्ति इति ॥

तद् व्याचष्टे—

अवलेपपदेनात्र बलाहकपदेन च ।
क्रिये विरुद्धे संयुक्ते तद्विरुद्धार्थदीपकम् ॥ ११० ॥

अवलेपपदेन व्याप्यभूतेन बलाहकपदेन कर्तृवाचिना सह विरुद्धे परस्परव्याहते क्रिये वर्द्धनकर्षणे संप्रयुक्ते सम्बद्धे अवलेपविषयत्वात्, बलाहककर्तृकत्वाच्च भवतः यतः तत्तस्मात् विरुद्धार्थदीपकमीदृशमिदम् । यद्वेदृशं तद् विरुद्धार्थदीपकमिति योज्यत् ॥

हरत्याभोगमाशानां गृह्णाति ज्योतिषां गणम् ।
आदत्ते चाद्य मे प्राणानसौ जलधरावली ॥ १११ ॥

आशानां दिशाम् आभोगं विस्तारं हरति गृह्णाति । ज्योतिषां नक्षत्राणां गणं गृह्णाति हरति । योऽहमेवं विरहविधुरः, तस्य मे मम प्राणान् आदत्ते गृह्णाति । असौ इयं जलधरावली मेघपंक्तिरिति ॥

तद् विवृणोति—

अनेकशब्दोपादानात् क्रियैकैवात्र दीप्यते ।
यतो जलधरावल्या तस्मादेकार्थदीपकम् ॥ ११२ ॥

अनेकस्य हरत्यादेः शब्दस्य क्रियापदस्य पर्यायरूपस्य उपादानात् प्रयोगेण एकैवापघातलक्षणा क्रिया दीप्यते उपक्रियते जलधरावल्या कर्तृभूतया यतः तस्मादेकार्थदीपकमीदृशमवसेयमिति ॥

हृद्यगन्धवहास्तुङ्गास्तमालश्यामलत्विषः ।
दिवि भ्रमन्ति जीमूता भुवि चैते मतङ्गजाः ॥ ११३ ॥

जीमूता मेघाः दिवि नभसि भ्रमन्ति अमी । मतङ्गजा हस्तिनश्च एते भुवि भ्रमन्ति । हृद्यो मनोहरो गन्धवहः पवनो येषाम् जीमूतानां ते, तथा हृद्यं गन्धं