हृद्यगन्धवहास्तुङ्गास्तमालश्यामलत्विषः ।
दिवि भ्रमन्ति जीमूता भुवि चैते मतङ्गजाः ॥ ११३ ॥

जीमूता मेघाः दिवि नभसि भ्रमन्ति अमी । मतङ्गजा हस्तिनश्च एते भुवि भ्रमन्ति । हृद्यो मनोहरो गन्धवहः पवनो येषाम् जीमूतानां ते, तथा हृद्यं गन्धं101 मदमयं वहन्ति क्षिपन्ति समन्तादिति हृद्यगन्धवहाः मतङ्गजा इति शब्दश्लेषः । हृद्यो वा मदमिश्रः गन्धवहः पवनो येषामित्यर्थश्लेषः । तुङ्गा महान्तः तमालवत् श्यामला नीला [त्विट् कान्तिर्येषां ते ।] उभयेऽपीत्यर्थश्लेषः ॥