101 मदमयं वहन्ति क्षिपन्ति समन्तादिति हृद्यगन्धवहाः मतङ्गजा इति शब्दश्लेषः । हृद्यो वा मदमिश्रः गन्धवहः पवनो येषामित्यर्थश्लेषः । तुङ्गा महान्तः तमालवत् श्यामला नीला [त्विट् कान्तिर्येषां ते ।] उभयेऽपीत्यर्थश्लेषः ॥

तद् विभजते—

अत्र धर्मैरभिन्नानामभ्राणां दन्तिनां तथा ।
भ्रमेणैकेन सम्बन्ध इति श्लिष्टार्थदीपकम् ॥ ११४ ॥

अत्र प्रयोगे धर्मैर्हृद्यगन्धवहत्वादिभिः गुणैरभिन्नानां समानामभ्राणां हस्तिनां च भ्रमेणैव एकेन कर्मणा दीपकेन सम्बन्धः साध्यसाधनलक्षणः प्रतीयत इति हेतोः श्लिष्टार्थदीपकमीदृशम्, श्लेषानुगतत्वात् इति ॥