96 पदसन्तानस्यार्थद्वारेण सा[धन]संभवादुपकारः साध्यसाधनभावेन तदपेक्षालक्षणश्चेत् यदि भवति तदेवंरूपं दीपकमाहुः उपदिशन्ति तद्विदः । सर्व वाक्यं दीपयत्युपकरोतीति दीपकम् । यथेत्युदाहरति ॥
पवनो दक्षिणो मलयानिलः । वीरुधां लतानां गुल्मानां वा सम्बन्धि पणें शीर्णं हरति क्षिपति, नताङ्गीनां मानवतीनां नवाय प्रत्यग्राय मानस्य विषयस्य वामताविशेषस्य भङ्गाय विगमार्थं च कल्पते संपद्यते । किम् ? पवनो दक्षिण इत्यपेक्षते । इह पवनजातिवाचिनादिवर्तिना सर्वमेतत् वाक्यमुपक्रियत इति जात्यादिदीपकमीदृशमवसेयम् ॥
ते तव दन्तिनो जयकुञ्जराः चतुर्णां पूर्वादीनाम् अम्भोधीनां वेलोद्यानेषु वेलायां वेलारूपाणि वा उद्यानानीति समासः । चरन्ति क्रीडन्ति चक्रवालाद्रेर्लोकालोकाचलस्य कुञ्जेषु सिद्धाध्यासितेषु प्रदेशेषु कुन्दस्येव भासो दीप्तयो येषामिति कुन्दभासो विशदाः, तव गुणाश्च त्यागसत्यशौर्यादयः । किम् ? चरन्ति श्रुतिपथमवतरन्ति उदधिवासिनामिति कश्चित् राजा स्तूयते । अत्र चरन्तीति क्रियावाची प्रथमप्रयुक्तः सर्वमेतद्वाक्यमुपकरोतीति क्रियादीपकमेवंजातीयं विज्ञेयमिति ॥
प्रावृषेण्याभिः वर्षासमयवर्तिनीभिः जीमूतपंक्तिभिः मेघमालाभिः दिशः श्यामलाः नीलाः वर्तन्ते । सुकुमाराभिः शाद्वलराजिभिः शष्पोद्गमैः । भुवश्च भूमयः किम् ? श्यामला इत्यपेक्षते । इह श्यामला इति पूर्ववर्तिना गुणवाचिना सर्वमिदं वाक्यमुपक्रियते इति गुणादिदीपकमित्थंभूतं विभाव्यमिति ॥