उत्कण्ठयति मेघानां माला वर्गं कलापिनाम् ।
यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥ ११८ ॥

कलापिनां वर्गमुत्कण्ठयति उद्ग्रीवयति मेघानां माला यूनां च मानसं मकरध्वजः उत्कण्ठयति पर्युत्सुकयति अद्य प्रावृषि । पदावृत्तेरिदमुदाहरणम् । पदस्यैवोत्कण्ठयतीत्यस्यावृत्तेः । अर्थस्य तु भेदादयमप्यर्थो दीपकेन परिदीप्यते । तद्यथा—

उत्कण्ठयति मेघानां माला वर्गं कलापिनाम् ।
यूनां च रागसर्वस्वं मानसं मकरध्वजः ॥
इति ॥