कोऽयमाक्षेप इत्याह—

इत्यनङ्गजयायोगबुद्धिर्हेतुबलादिह ।
प्रवृत्त्यैव यदाक्षिप्ता वृत्ताक्षेपस्तदीदृशः ॥ १२२ ॥

इत्येवमनन्तरोक्तस्य अनुरूपस्य च हेतोः कारणस्य पौष्पपञ्चशरत्वादेः । बलात् सामर्थ्यात् प्रवृत्ता भूतैवानङ्गजयायोगबुद्धिः । अनङ्गस्य जयो विश्ववशीकरणम् । तस्यायोगोऽसम्भावना तत्र बुद्धिः अनङ्गो व्यजयतेत्यसम्भाव्यमित्येवाकाराक्षिप्ता निषिद्धा । हेतुबलादित्यत्राप्यपेक्षणीयम् । भाववदभावस्यापि सहेतुकत्वात् । हेतुबलं चात्र विचित्रवस्तुशक्तिदर्शनम् । यद् यतः तत् तस्मात् ईदृशः एवंप्रकारो वृत्तस्याक्षेपो भूतकालाक्षेपोऽवसेय इति ॥