116 यत् यस्मात्प्रक्रान्तः प्रस्तुतो विस्मयो निवर्त्यते अर्थान्तरस्याग्नेः । तेन विक्रमेण सधर्मणस्तुल्यस्य दर्शनादवगमात् । ततोऽर्थान्तराक्षेपोऽयम्, अर्थान्तरेण तादृशेन विस्मयस्य निषेधादिति ॥

न स्तूयसे नरेन्द्र ! त्वं ददासीति कदाचन ।
स्वमेव मत्वा गृह्णन्ति यतस्त्वद्धनमर्थिनः ॥ १६५ ॥

नरेन्द्र, ददासि त्वं धनमर्थिभ्य इति कथञ्चन केनापि प्रकारेण न स्तूयसे । किं कारणम् ? यतः कारणात्