न स्तूयसे नरेन्द्र ! त्वं ददासीति कदाचन ।
स्वमेव मत्वा गृह्णन्ति यतस्त्वद्धनमर्थिनः ॥ १६५ ॥

नरेन्द्र, ददासि त्वं धनमर्थिभ्य इति कथञ्चन केनापि प्रकारेण न स्तूयसे । किं कारणम् ? यतः कारणात् 59a तव धनमर्थिनः स्वम् आत्मीयमेव मत्वा गृह्णन्ति । नास्येदं धनम् अस्माकमेवेदम्, वयमुपभोक्तारः केवलमस्मदर्थं रक्षति । यद्वा अस्य धनं तदस्माकमपि सर्वसाधारणविभवत्वादस्येति ॥