कुतः कुवलयं कर्णे करोषि कलभाषिणि ।
किमपाङ्गमपर्याप्तमस्मिन् कर्मणि मन्यसे ॥ १२३ ॥

कलभाषिणि मञ्जुवचने ! प्रियामन्त्रणम् । कर्णे कुवलयम् अवतंसोत्पलम् कुतः कस्मात् करोपि ? वृथैव तत् क्रियते, अपाङ्गेन कर्णपूरकार्याचरणादित्याहकिमित्यादि । अपाङ्गं नयनोपान्तम् अस्मिन् प्रस्तुते कर्मणि कर्णावतंसोत्पलकृत्ये105 अपर्याप्तम् असमर्थम् मन्यसे ? किमिति क्षेपे प्रश्ने वा । नैवं मन्तव्यं पर्याप्तमिदमस्मिन् कर्मणीति ॥