55a मान्यस्य भेदाः विकल्पा आक्षेपरूपा वा भेदाः । तेषामानन्त्यादपर्यवसानात् कारणादिति ॥

अनङ्गः पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः ।
इत्यसंभाव्यमथवा विचित्रा वस्तुशक्तयः ॥ १२१ ॥

पौष्पैः पुष्पमयैः एकान्तमृदुभिस्तैरपि पञ्चभिः स्वल्पैरिषुमिः शरैः स पञ्चेषुरनङ्गः विश्वं जगत् सर्वं व्यजयत विजितवानिति असम्भाव्यमयुक्तमेतत् । कथमस्याः सामग्र्याः कार्यमीदृशं संभाव्यते ? अथवा किं न सम्भाव्यते ? यतो वस्तूनां पदार्थानां शक्तयः विचित्रा नानाप्रकारा अचिन्त्यास्तदेषामपि तादृशी शक्तिर्भवेत् । न किञ्चिद्वाधकमिति ॥

कोऽयमाक्षेप इत्याह—

इत्यनङ्गजयायोगबुद्धिर्हेतुबलादिह ।
प्रवृत्त्यैव यदाक्षिप्ता वृत्ताक्षेपस्तदीदृशः ॥ १२२ ॥

इत्येवमनन्तरोक्तस्य अनुरूपस्य च हेतोः कारणस्य पौष्पपञ्चशरत्वादेः । बलात् सामर्थ्यात् प्रवृत्ता भूतैवानङ्गजयायोगबुद्धिः । अनङ्गस्य जयो विश्ववशीकरणम् । तस्यायोगोऽसम्भावना तत्र बुद्धिः अनङ्गो व्यजयतेत्यसम्भाव्यमित्येवाकाराक्षिप्ता निषिद्धा । हेतुबलादित्यत्राप्यपेक्षणीयम् । भाववदभावस्यापि सहेतुकत्वात् । हेतुबलं चात्र विचित्रवस्तुशक्तिदर्शनम् । यद् यतः तत् तस्मात् ईदृशः एवंप्रकारो वृत्तस्याक्षेपो भूतकालाक्षेपोऽवसेय इति ॥

कुतः कुवलयं कर्णे करोषि कलभाषिणि ।
किमपाङ्गमपर्याप्तमस्मिन् कर्मणि मन्यसे ॥ १२३ ॥

कलभाषिणि मञ्जुवचने ! प्रियामन्त्रणम् । कर्णे कुवलयम् अवतंसोत्पलम् कुतः कस्मात् करोपि ? वृथैव तत् क्रियते, अपाङ्गेन कर्णपूरकार्याचरणादित्याहकिमित्यादि । अपाङ्गं नयनोपान्तम् अस्मिन् प्रस्तुते कर्मणि कर्णावतंसोत्पलकृत्ये