अनङ्गः पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः ।
इत्यसंभाव्यमथवा विचित्रा वस्तुशक्तयः ॥ १२१ ॥

पौष्पैः पुष्पमयैः एकान्तमृदुभिस्तैरपि पञ्चभिः स्वल्पैरिषुमिः शरैः स पञ्चेषुरनङ्गः विश्वं जगत् सर्वं व्यजयत विजितवानिति असम्भाव्यमयुक्तमेतत् । कथमस्याः सामग्र्याः कार्यमीदृशं संभाव्यते ? अथवा किं न सम्भाव्यते ? यतो वस्तूनां पदार्थानां शक्तयः विचित्रा नानाप्रकारा अचिन्त्यास्तदेषामपि तादृशी शक्तिर्भवेत् । न किञ्चिद्वाधकमिति ॥