भगवन्तौ जगन्नेत्रे सूर्याचन्द्वमसावपि ।
पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते ॥ १७० ॥

भगवन्तौ गुणराशा । जगतो लोकस्य नेत्र चक्षुषी, प्रकाशकरत्वात् । सूर्याचन्द्रमसावपि, किमुतान्यद् वस्तुजातम् ? अस्तमुदयविपर्ययमभावं गच्छत एव । न पुनस्तत्रैव तिष्ठतः । पश्य । कथमेतत् ? किमत्र चित्रम् ! नियतिर्भावानामनपायिनी व्यवस्था काचित्, उदयः सर्व एव व्ययनिष्ठ इति । सा केन नाम वस्तुना लङ्घ्य विक्रमितुं शक्यते ? न केनचित् । सर्वमेवेह वस्तूदितमवश्यं व्येति । ततः सूर्याचन्द्रमसोरपि तथाभावो नाद्भुत इति प्रस्तुतं वस्तु साधितम् । अयं च विश्वव्यापी, तथाभावस्य सर्वत्रगत्वादिति ॥