पयोमुचः परीतापं हरन्त्येव शरीरिणाम् ।
नन्वात्मलाभो महतां परदुःखोपशान्तये ॥ १७१ ॥

एते पयोमुचो मेघाः शरीरिणां स्थावरजङ्गमानां परीतापं ज्वरं हरन्ति शमयन्ति । किमेतत् ? न हि तेषाममी किञ्चित्प्रत्युपकुर्वन्ति । किमेवमुच्यते ? ननु प्रसिद्धावनुमतौ वा । महताम् उत्ता[ना]नां न क्षुद्राणां तेषामात्मकल्याणेऽप्यकल्पत्वात् 60a आत्मलाभ उदयः परेषां सर्वेषामेव सम्भूतानामसम्भूतानां च दुःखस्य तापस्य उपशान्तये निवर्तनार्थं जायते । स्थितिरेषा महताम् । इदमेव च तेषां माहात्म्यम् । अन्यथा स्वार्थपरे जगति कस्तेषां विशेषो यदि तेऽपि तथैव स्युः ? ततः पयोमुचः119 प्रत्युपकारनिरपेक्षाः जगत्तापं नुदन्तीति उपपादितम् । अयं च विशेषस्थो महतामेव तथात्वात् [न] विश्वव्यापीति ॥