60a आत्मलाभ उदयः परेषां सर्वेषामेव सम्भूतानामसम्भूतानां च दुःखस्य तापस्य उपशान्तये निवर्तनार्थं जायते । स्थितिरेषा महताम् । इदमेव च तेषां माहात्म्यम् । अन्यथा स्वार्थपरे जगति कस्तेषां विशेषो यदि तेऽपि तथैव स्युः ? ततः पयोमुचः