119 प्रत्युपकारनिरपेक्षाः जगत्तापं नुदन्तीति उपपादितम् । अयं च विशेषस्थो महतामेव तथात्वात् [न] विश्वव्यापीति ॥

उत्पादयति लोकस्य प्रीतिं मलयमारुतः ।
ननु दाक्षिण्यसम्पन्नः सर्वस्य भवति प्रियः ॥ १७२ ॥

मलयमारुतो दक्षिणः पवनः लोकस्य जगतः प्रीतिमुत्पादयति । किं पुनः कारणं येनायं सर्वेषां प्रिय इति साधयन्नाह- नन्वित्यादि । नन्वित्यनुमतौ । दाक्षिंण्यं परच्छन्दानुवर्तित्वम् । सर्वप्रीतिजननानुगुणो गुणः पौरुषेयः, दक्षिणदेशभवत्वं चेति शब्दश्लेषः । तेन सम्पन्नः सुभगः सर्वस्य जनस्य प्रियो भवति । न कस्यचिदप्रियः । कथमनुकूलवर्ती कस्यचिदप्रियोऽप्रीतिकरः स्यात् । तस्मान्मलयजमारुतो दक्षिणः सर्वेषां प्रीतिंमुत्पादयतीति समर्थितम् । अयं च श्लेषाविद्धो दाक्षिण्यसंपन्न इत्यस्य श्लिष्टत्वादुक्तेन विधिनेति ॥

जगदानन्दयत्येष मलिनोऽपि निशाकरः ।
अनुगृह्णाति हि परान् सदोषोऽपि द्विजेश्वरः ॥ १७३ ॥

एष निशाकरश्चन्द्रो मलिनोऽपि कलङ्कयोगात् अशुद्धोऽपि जगत् लोकमाह्लादयति प्रीणयति । विरुद्धमेतत्, कथं सकलङ्कः प्रीतिकरोऽदोषस्य तथाभावात् । तत्साधयतिभवत्येवम् । हिः यस्मादर्थे । यतः सदोषोऽपि कथञ्चित् कलङ्कवानपि न केवलमदोषः । द्विजेश्वरश्चन्द्रो विप्रश्चेति श्लेषः । स त्विह तु न विवक्षितः, विरोधस्यैवाभिधित्सितत्वात् । अनुगृह्णाति उपकरोति ह्लादयति परान् धर्मोपदेशादिना । तस्मान्मलिनोऽपि निशाकरो जगदाह्लादयतीत्युपपद्यते । अयं च विरोधवान् । उक्तेन विधिना विरोधदर्शनादिति ॥

मधुपानकलात् कण्ठान्निर्गतोऽप्यलिनां ध्वनिः ।
कटुर्भवति कर्णस्य कामिनां पापमीदृशम् ॥ १७४ ॥

मधुनः कुसुमासवस्य पानेन कलान्मधुरात् कण्ठान्निर्गतोऽलिनां मधुलिहां मधुरोऽपि ध्वनिः कामिनां विरहिणा