जगदानन्दयत्येष मलिनोऽपि निशाकरः ।
अनुगृह्णाति हि परान् सदोषोऽपि द्विजेश्वरः ॥ १७३ ॥

एष निशाकरश्चन्द्रो मलिनोऽपि कलङ्कयोगात् अशुद्धोऽपि जगत् लोकमाह्लादयति प्रीणयति । विरुद्धमेतत्, कथं सकलङ्कः प्रीतिकरोऽदोषस्य तथाभावात् । तत्साधयतिभवत्येवम् । हिः यस्मादर्थे । यतः सदोषोऽपि कथञ्चित् कलङ्कवानपि न केवलमदोषः । द्विजेश्वरश्चन्द्रो विप्रश्चेति श्लेषः । स त्विह तु न विवक्षितः, विरोधस्यैवाभिधित्सितत्वात् । अनुगृह्णाति उपकरोति ह्लादयति परान् धर्मोपदेशादिना । तस्मान्मलिनोऽपि निशाकरो जगदाह्लादयतीत्युपपद्यते । अयं च विरोधवान् । उक्तेन विधिना विरोधदर्शनादिति ॥