मधुपानकलात् कण्ठान्निर्गतोऽप्यलिनां ध्वनिः ।
कटुर्भवति कर्णस्य कामिनां पापमीदृशम् ॥ १७४ ॥

मधुनः कुसुमासवस्य पानेन कलान्मधुरात् कण्ठान्निर्गतोऽलिनां मधुलिहां मधुरोऽपि ध्वनिः कामिनां विरहिणा 60b मपि कर्णस्य कटुरुद्वेजनीयोऽत्यन्तोत्कण्ठाकरत्वाद् भवति । एतच्चायुक्तम् । कथमीदृशः प्रीतिकरो ध्वनिः उद्वेजयति तत्साध्यते-120 किं न युक्तम्, यतः पापमीदृशं कामिनां रागिणाम् एवंरूपं कर्म यतोऽयमेवंविधो मधुरो ध्वनिः अन्यथा प्रतिभाति । किमत्र क्रियताम् ! तस्मात्सम्भवत्येतदिति साधितम् । अयमयुक्तकारी मधुरस्य ध्वनेः उद्वेगहेतुत्वायोगादिति ॥