120 किं न युक्तम्, यतः पापमीदृशं कामिनां रागिणाम् एवंरूपं कर्म यतोऽयमेवंविधो मधुरो ध्वनिः अन्यथा प्रतिभाति । किमत्र क्रियताम् ! तस्मात्सम्भवत्येतदिति साधितम् । अयमयुक्तकारी मधुरस्य ध्वनेः उद्वेगहेतुत्वायोगादिति ॥

अयं मम दहत्यङ्गमम्भोजदलसंस्तरः ।
हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते ॥ १७५ ॥

अम्भोजानां कमलानां दलानि पत्राणि तेषां तन्मयो वा संस्तरः तल्पम् । अयम् अनुभूयमानः मम अङ्गं देहं दहति तापयति । युक्तं चैतत् । कथम् ? हुताशनस्य अग्नेः प्रतिनिधिः सदृशः पाटलत्वात् दाहात्मा दाहस्वभावो रक्तपद्मपत्रसंस्तरो युज्यते नन्विति साधितम् । अयं च युक्तात्मा कथितेन विधिना दाहकत्वयोगादिति ॥

क्षिणोतु कामं शीतांशुः किं वसन्तो दुनोति माम् ।
मलिनाचरितं कर्म सुरभेर्नन्वसाम्प्रतम् ॥ १७६ ॥

कामं नामाभ्युपगमे शीतांशुश्चन्द्रः मां क्षिणोतु तापयतु युक्तमेतत् । वसन्तः किं कस्मात् मां दुनोति तापयति ? नैतद् युक्तम् । इदं त्वयुक्तमिति साधयन्नाहमलिनेत्यादि । मलिनेन कलङ्किना शीतांशुना आचरितम् अनुष्ठितं कर्म क्रिया तापलक्षणम् असाम्प्रतम् अयुक्तम् । ननु कस्य ? सुरभेर्वसन्तस्य सुरभेश्चाभिलषितस्येति श्लेषः । कथं दुष्टानुष्ठितं कर्म निर्दोषो जुषति । तस्मात् क्षिणोतु शीतांशुः । वसन्तः किं दुनोतीति पूर्वं समर्थितम् । अयं युक्तायुक्तः, शीतांशुना तापस्य योगात् वसन्तेनायोगादुक्तेन विधिनेति ॥

कुमुदान्यपि तापाय किमङ्ग ! कमलाकरः ।
नहीन्दुगृह्येषूग्रेषु सूर्यगृह्यो मृदुर्भवेत् ॥ १७७ ॥

तापाय पीड़ार्थं कल्पन्ते । अयुक्तमेतदिति अपिशब्देनायोगः सूच्यते । चन्द्रपक्षाणां तापकारित्वायोगात् । किमङ्ग किं पुनः कमलाकरः तापाय न भवेत् । भवत्येव । युक्तमेतत् । किं तदयुक्तमिदं तु युक्तमिति साधयति- नहीत्यादि । इन्दोः एकान्तशीतस्य गृह्येषु पक्षेषु कुमुदेषूग्रेषु तापकारिषु, सूर्यस्य एकान्ततप्तस्य गृह्यः आयत्तः