क्षिणोतु कामं शीतांशुः किं वसन्तो दुनोति माम् ।
मलिनाचरितं कर्म सुरभेर्नन्वसाम्प्रतम् ॥ १७६ ॥

कामं नामाभ्युपगमे शीतांशुश्चन्द्रः मां क्षिणोतु तापयतु युक्तमेतत् । वसन्तः किं कस्मात् मां दुनोति तापयति ? नैतद् युक्तम् । इदं त्वयुक्तमिति साधयन्नाहमलिनेत्यादि । मलिनेन कलङ्किना शीतांशुना आचरितम् अनुष्ठितं कर्म क्रिया तापलक्षणम् असाम्प्रतम् अयुक्तम् । ननु कस्य ? सुरभेर्वसन्तस्य सुरभेश्चाभिलषितस्येति श्लेषः । कथं दुष्टानुष्ठितं कर्म निर्दोषो जुषति । तस्मात् क्षिणोतु शीतांशुः । वसन्तः किं दुनोतीति पूर्वं समर्थितम् । अयं युक्तायुक्तः, शीतांशुना तापस्य योगात् वसन्तेनायोगादुक्तेन विधिनेति ॥