118 आत्मा स्वरूपं यस्य स तथा । युक्त इति यावत् । युक्तश्चासौ कथञ्चिदयुक्तश्चेति युक्तायुक्तः । विपर्ययोऽयुक्तयुक्त इति ॥

इत्येवमादयो भेदाः प्रयोगेष्वस्य लक्षिताः ।
उदाहरणमालैषां रूपयुक्त्यै निदर्श्यते ॥ १६९ ॥

इत्येवम् अनन्तरोक्तो विचित्रो भेद आदिर्येषां यथासम्भवमविरोधादीनां ते भेदाः विकल्पाः प्रयोगेषु काव्येषु लक्षिताः दृष्टाः कविभिः अस्य अर्थान्तरन्यासस्य सम्बन्धिनः । एषां भेदानां रूपस्य स्वभावस्य युक्त्यै प्रत्यवगमार्थम् । उदाहरणानां प्रयोगाणां माला वर्गो निदर्श्यते इति ॥

भगवन्तौ जगन्नेत्रे सूर्याचन्द्वमसावपि ।
पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते ॥ १७० ॥

भगवन्तौ गुणराशा । जगतो लोकस्य नेत्र चक्षुषी, प्रकाशकरत्वात् । सूर्याचन्द्रमसावपि, किमुतान्यद् वस्तुजातम् ? अस्तमुदयविपर्ययमभावं गच्छत एव । न पुनस्तत्रैव तिष्ठतः । पश्य । कथमेतत् ? किमत्र चित्रम् ! नियतिर्भावानामनपायिनी व्यवस्था काचित्, उदयः सर्व एव व्ययनिष्ठ इति । सा केन नाम वस्तुना लङ्घ्य विक्रमितुं शक्यते ? न केनचित् । सर्वमेवेह वस्तूदितमवश्यं व्येति । ततः सूर्याचन्द्रमसोरपि तथाभावो नाद्भुत इति प्रस्तुतं वस्तु साधितम् । अयं च विश्वव्यापी, तथाभावस्य सर्वत्रगत्वादिति ॥

पयोमुचः परीतापं हरन्त्येव शरीरिणाम् ।
नन्वात्मलाभो महतां परदुःखोपशान्तये ॥ १७१ ॥

एते पयोमुचो मेघाः शरीरिणां स्थावरजङ्गमानां परीतापं ज्वरं हरन्ति शमयन्ति । किमेतत् ? न हि तेषाममी किञ्चित्प्रत्युपकुर्वन्ति । किमेवमुच्यते ? ननु प्रसिद्धावनुमतौ वा । महताम् उत्ता[ना]नां न क्षुद्राणां तेषामात्मकल्याणेऽप्यकल्पत्वात्