तद् व्याचष्टे—

इत्येकव्यतिरेकोऽयं धर्मेणैकत्रवर्तिना ।
प्रतीतिविषयप्राप्तेर्भेदस्योभयवर्तिनः ॥ १८० ॥

इत्येवंप्रकारो यः सोऽयमेकव्यतिरेको विज्ञेयः । कुतः ? एकत्रवर्तिना पुंसि एकत्र वर्तमानेन धर्मेण स्वभावेनेदृशेन वपुरात्मना शब्दोपात्तेन हेतुना उभयवर्तिनः पुरुषोदन्वतोः, तस्य भेदस्य विंसदृशत्वस्य प्रतीतेः । 61b प्रतीतिर्वा विषयो गोचरः, तस्य तत्र वा प्राप्तेः कारणात् । प्रतीयमानत्वादिति यावत् ॥