वक्त्रं निसर्गसुरभि वपुरव्याजसुन्दरम् ।
अकारणरिपुश्चन्द्रो निर्निमित्तं सुहृत्पुमान् ॥ २०१ ॥

130 सुन्दरि ! 64b वक्त्रं तव निसर्गेण स्वभावादेव सुरभि सुगन्धि, न मुखवासादिना । वपुश्चाव्याजे[न] प्रयत्नेन तादृशेन विना सुन्दरम् अभिरूपम् । अकारणेन विनापकारेण केनचित् चन्द्रो रिपुः वर्तते, व्यथाहेतुत्वाद् विरहिणाम् । स विवक्षितः कश्चित् पुमान् निर्निमित्तं सुहत् मित्रं वर्तते, तथाविधसम्भवोपकारकभावाद् इति ॥