64b वक्त्रं तव निसर्गेण स्वभावादेव सुरभि सुगन्धि, न मुखवासादिना । वपुश्चाव्याजे[न] प्रयत्नेन तादृशेन विना सुन्दरम् अभिरूपम् । अकारणेन विनापकारेण केनचित् चन्द्रो रिपुः वर्तते, व्यथाहेतुत्वाद् विरहिणाम् । स विवक्षितः कश्चित् पुमान् निर्निमित्तं सुहत् मित्रं वर्तते, तथाविधसम्भवोपकारकभावाद् इति ॥

कतमेयं विभावनेति विवृणोति—

निसर्गादिपदैरत्र हेतुः साक्षान्निवर्तितः ।
उक्तं च सुरभित्वादिफलं तत् सा विभावना ॥ २०२ ॥

निसर्गादिभिः पदैः शब्दैः कर्तृभूतैः करणैर्वा । आदिशब्देनाव्याजादिपरिग्रहः । हेतुः कारणं सुरभित्वादिः मुखवासादिलक्षणः साक्षाद्वाचकव्यापारेण, न सामर्थ्यात् । निवर्तितो निषिद्धः फलं च तस्य सुरभिसुन्दरत्वादिग्रहणेनोपादीयते । उक्तं साक्षादेव । ततः किमित्याह- तत् सा विभावनेति । यत एवं ततस्तस्मात् स्वाभाविकफला विभावना ज्ञातव्या । या परैः

हेतोर्निषेधनात् तस्य यत् फलस्य विभावनम् ।
ज्ञेया विभावनेनैवासावेवं कथ्यते यथा ॥
82 इत्युक्ता । न तु पूर्वं कारण विना विभावनैव सा कथितेन विधिना । ननु सर्वथा हेतुनिषेधे कथं फलस्योदयः ? स्वभावादिति चेत्- कोऽयं स्वभावः, फलस्य तस्यान्यस्य वा ? न तावदस्य स्वयमेव निषेधात् । स्वाभाविकफलाभ्युदयात् । फलस्यापि स्वभावः सतोऽसतो वा ? सतस्तावत् स्वभावो न हेतुः । स्वभाववत् तदव्यतिरेकात् फलस्यापि सिद्धत्वात् । स्वभावात् फलं ज्ञायत इति रिक्ता वाचोयुक्तिः । न च भावस्वभावयोर्भेदः । तत्त्वग्रहणान्निःस्वभावत्वप्रसङ्गात् । तस्येति सम्बन्धायोगाच्च । विकल्पनिर्मितस्त्वपरीक्षाक्षमो न निषिध्यते । भेदः फलस्य स्वभाव इति ।१ असतोऽपि सुतरां न हेतुः । तदव्यतिरेकेण तद्वत्स्वभावस्यास्याप्यसत्त्वात् । कथं स्वभावात् फलं भवति ? न ह्यसतो जनकत्वमतिप्रसङ्गात् । तत्कथं स्वाभाविकविभावनेयं

  1. [