तमुदारहरन्नाह—
अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम् ।
अप्रसादितसूक्ष्माम्बु जगदासीन्मनोहरम् ॥ १९८ ॥
पीताः पीतवन्तः । बहुलवचनात् कर्तरि क्तः । आरम्भे वा । अथवा
वनाय पीतप्रतिबद्धवत्साम्
81
इतिवत् । न तथा अपीता अकृतमधुपानाः सन्तः क्षीबाः मत्ताः कादम्बाः कलहंसाः असंमृष्टम् अपरिशोधितम् सत् अमलम् अनाविलम् अम्बरम् आकाशम्, कतकादिभिः अप्रसादितम् अनपनीतकालुष्यं सत् सूक्ष्मम् अच्छम अम्बु च यत्र जगति तन्मनोहरं सुभगमासीत् अभूदिति ।
- रघुवंशे २. १↩