भावार्थमत्र दर्शयन्नाह—

इति प्रौढाङ्गनाबद्धरतिलीलस्य रागिणः ।
कस्याञ्चिदपि बालायामिच्छावृत्तिर्विभाव्यते ॥ २०५ ॥

इति इह वाक्ये प्रयुक्ते प्रौढ़ायाम् आरूढ़मन्मथविभ्रमविमर्दभूमौ अङ्गनायां बद्धा निवेशिता रतिः सम्भोग एव लीला विभ्रमो येन यस्य वा तस्य रागिणः । कस्याञ्चित् बालायाम् प्रथमवयोवर्तिन्याम् अप्रौढ़ायां कस्याञ्चिद्विषये इच्छाया रागस्य वृत्तिः प्रसरो विभाव्यते प्रतीयते । न तु साक्षादुच्यते । ततोऽयमेवार्थो विधेयत्वात् प्रधानम् । शब्दार्थस्तूपसर्जनीभूतस्तत्परत्वाभावाद्वाक्यस्येति ॥