समासोक्तेः प्रभेदं दर्शयन्नाह—

विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा ।
अस्त्यसावपराप्यस्ति भिन्नाभिन्नविशेषणा ॥ २०६ ॥

65b यत्किञ्चिद् वस्तु सामान्याकारप्रतीतमीदृशमिदं नान्यथेति कुतश्चिद् व्यवच्छिद्य केनचिद् गुणादिना व्यवस्थाप्यते तद्विशेष्यम् । तदेव तन्मात्रमुपाधिभेदव्यवच्छेदात् भिन्नमतुल्यं यस्यां सा तथा विशेष्यमात्रेण वा भिन्ना अवयवधर्मस्य समुदाये न्यासात् । विजातीयविशेष्यापि सती तुल्याकारमभिन्नं विशेषणमुपाधिरस्यामिति तुल्याकारविशेषणा या सापीयं समासोक्तिरस्ति । न केवलम् अन्या । यदाहअपराप्यस्ति न केवलमेषा । कीदृशी ? भिन्नं किञ्चिदभिन्नं च विशेषणमुपाधिरस्यामिति भिन्नाभिन्नविशेषणा । विशेष्यं तु उभयत्राभिन्नमिति ॥