तदुभयमुदाहरति—

रूढ़मूलः फलभरैः पुष्णन्ननिशमर्थिनः ।
सान्द्रच्छायो महावृक्षः सोऽयमासादितो मया ॥ २०७ ॥

योऽयं महान् वृक्षः कालमियन्तं प्रार्थितः, स आसादितः प्राप्तः प्रसन्नेन विधिनोपानीतः । रूढं परिणतं मूललं जटालक्षणं यस्य महावृक्षस्य, रूढ़मविकलं निजप्रकृतिलक्षणं बलम् मूलम् [तस्य] राज्यमूलत्वात् । यस्य पुंसः । फलानां वृक्षोचितानां च कालानां च सम्पदां भरैः सन्दोहैरर्थिनः फलं काङ्क्षिणः पुष्णन्नुपकुर्वन महावृक्षः पुरुषश्च यथाक्रमम् सान्द्रा निरन्तरा छाया आतपच्छेदलक्षणा यस्य सान्द्रा पर्याप्ता देहप्रभास्वभावा अङ्गरूपा कीर्तिलक्षणा वा यस्य पुंसः सोऽयमासादित इति । इयं विशेष्यमात्रभिन्ना तुल्याकारविशेषणा । विशेष्यवृक्षस्य विवक्षितात् पुरूषात् भिन्नन्वात् रूढ़मूलत्वादेश्च विशेषणस्योक्तेन प्रकारेणाभिन्नत्वादिति ॥