अनल्पविटपाभोगः फलपुष्पसमृद्धिमान् ।
सच्छायः स्थैर्यवान् दैवादेष लब्धो मया द्रुमः ॥ २०८ ॥

एषोऽभिलषिऽतोऽर्थः । दैवात् कुतश्चित् भागधेयात् लब्धः प्राप्तो मया । विटपानां विटपरुपो वा आभोगः प्रसारोऽनल्पो महान् यस्य द्रुमस्य । फलानि पुष्पाणि च समृद्धयः श्रियः वृक्षोचिताः [यस्य] । सहाच्छायया चन्द्रा र्कालोकविलोकरूपया वर्तते सच्छायो द्रुमः । पुरुषस्तु पूर्वोक्तया कान्त्यादिरूपच्छायया युक्त इति सच्छायः । स्थैर्यवान् द्रुमो वातादिभिरनुत्पाट्यत्वात् । पुरुषस्तु विपक्षैर्दुर्द्धर्षत्वात् । एषा विशेष्यमात्रभिन्ना भिन्नविशेषणा, विवक्षितात् पुरुषाद्विशेष्यात् द्रुमस्य विशेषस्य भिन्नत्वात् । अनल्पविटपाभोगत्वस्य फलपुष्पसमृद्धिमत्त्वस्य च द्रुम एव सम्भवात् । सच्छायतायाः स्थैर्यस्य चोभयत्रापि भावादुक्तेन विधिनेति ॥