निवृत्तव्यालसंसर्गो निसर्गमधुराशयः ।
अयमम्भोनिधिः कष्टं कालेन परिशोष्यते ॥ २१० ॥

अयम् अपरोक्षवृत्तिः अम्भोनिधिः सागरः कालेन संवर्तसमयेन परिशोष्यते विलयं नीयते । कष्टं बत इति खेदे । पुरुषः कालेन मृत्युना परिशोष्यते परासुः क्रियते । अम्भोनिधिः व्यालैः सर्पैः संसृष्टः । पुरुषस्तु, निवृत्तो व्यालैः दुष्टैः संसर्गोऽस्येति निवृत्तव्यालसंसर्गः । अम्भोनिधिः स्वभावलवणजललक्षणाशययुक्तः । पुरुषस्तु निसर्गेण स्वभावेन मधुरः सुरसः प्रीतिकरः आशयः चित्तं यस्येति निसर्गमधुराशयः । गाम्भीर्यादयस्तु गुणाः साधारणाः प्रतीयन्त एव । अन्यथा कथमम्भोनिधित्वेन पुरुषो वर्ण्यते ततश्चापूर्वोऽयमम्भोनिधिरिति ॥