अतिशयोक्तिप्रशं[सा]मुखेन निगमयन्नाह—

अलङ्कारान्तराणामप्याहुरेकं परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ॥ २१८ ॥

इमामनन्तरोक्तामुक्तिमतिशय इत्याह्वयः संज्ञा यस्या इत्यतिशयाह्वयामतिशयोक्तिमिति यावत् । वागीशानां कवीनामुत्कर्षयोगात् । महितां पूजितामत्यन्तवल्लभाम् । अलङ्काराणां शेषाणामलङ्काराणामपि न केवलं काव्यस्य धर्मिणः । अतिशये वापिशब्दः । परायणमाश्रयमेकं प्रधानमाहुः कथयन्ति कवयः । तथाहि स्वभावोक्तिरपि विशेषोक्त्यनुगामिनी शोभते या यथावस्थितवस्तुस्वरूपपरिदीपनी । अन्यथा कथञ्चिदपि अतिशयाशंसनेन तन्मात्रकथने निर्जीव[ः/?/] कीदृशः काव्यालङ्कारः ? विशेषलक्षणत्वात्तस्य । किं पुनर्वक्रोक्तयस्तत्तद्विशेषरूपाः उपमारूपकादयः ? तस्मादलङ्काराणामपीयमलंक्रियाऽतिशयोक्तिरिति सूक्तमेतत् अलङ्कारा[न्तरा]णामप्येकं परायणमिति । आदिशब्द१. २१४संगृहीताः अतिशयोक्तिविकल्पाः केचिदुदाह्रियन्ते— 138

परिरम्भेषु रम्भोरु ! पयोधरपराकृतम् ।
नास्ति मध्यं तवेत्येतत् विपर्यस्यति मे मनः ॥
विपर्यासातिशयोक्तिः ।
नीला नेत्रद्युतिः शुद्धा सुदत्या दन्तदीधितिः ।
तस्याः संभिन्नयोर्दत्तो गङ्गायमुनयोः श्रियम् ॥
उपमानुगतातिशयोक्तिः ।
मुखेन्दुहसितज्योत्स्नासङ्गतास्तव सुन्दरि ।
निशाः प्रकाशमायान्ति निमग्नशशिमण्डलाः ॥
रूपकानुगतातिशयोक्तिः ।
नीलया तव लोलाक्षि ! लोलया लोचनत्विषा ।
आपूरिता दिशो भान्ति निशापरिगता इव ॥
उत्प्रेक्षानुगतातिशयोक्तिः ।
एवमन्येऽप्यतिशयोक्तिविकल्पा अनुगन्तव्या इति ॥