कर्णस्य भूषणमिदं ममायतिनिरोधिनः ।
इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घ्यते ॥ २२२ ॥

आयताक्षि ! तव दृष्ट्या लोललोचनेन कर्णोपान्तपातिन्या विजृम्भमाणकान्तिद्वारेण कर्णोत्पलं श्रवणावतंसकुवलयं विलङ्घ्यते तिरस्क्रियते, तत्कान्त्या लङ्घनसम्भावनया तथेत्युक्तम् । यद् वक्ष्यति । दृष्टेरंशुभिः स्पृश्येत न वेति २. २२३ । किमित्येवं क्रियते ? ममायतिः विजृम्भणं तत्प्रसरं निरुन्धानस्य विघ्नयतः कर्णस्यापकारिणो भूषणं शोभाकरमिदमुत्पलं तन्मया लङ्घनीयम् इति कृत्वा । प्रायःशब्द इत्युत्प्रेक्षां सूचयति । अत्राचेतनस्य नयनांशुलक्षणस्य वस्तुनोऽन्यथास्थिता वृत्तिरन्यथोत्प्रेक्ष्य वर्ण्यत इति ॥