नन्वत्र न तव दृष्ट्या कर्णोत्पलं स्पृश्यते नापि तत्कान्त्या, तथाप्यदर्शनात् । तत्कथमुत्प्रेक्ष्यते ? पूर्वत्र तु तथा जलगाहनदर्शनात् 68b तादृगुत्प्रेक्षा सम्भवति ।140 इह तु न किञ्चिद् बीजं तथोत्प्रेक्षायाः, सर्वथा दृष्टिकर्णोत्पलयोः संसर्गाभावादित्याह-

अपाङ्गभागपातिन्या दृष्टेरंशुभिरुत्पलम् ।
स्पृश्येत वा न वैवं तु कविनोत्प्रेक्ष्य कथ्यते ॥ २२३ ॥

अपाङ्गभागः लोचनोपान्तदेशः तत्र पतन्त्या अवलोकयन्त्या दृष्टेरंशुभिः किरणैः उत्पलं श्रुतिवतंसं स्पृश्येत संसृज्येत । कस्याश्चिदुत्पलं स्पृश्यते । नापि तत्कान्त्या तथाप्यदर्शनात् । तत्कथमेवमुत्प्रेक्ष्यते ? पूर्वत्र तु तथा जलगाहनदर्शनात् चादृगुत्प्रेक्षासम्भावना । अङ्गनायाः सम्भाव्यमेतत् । अथ कथञ्चित् नेति निर्बन्धः, तदा न वा स्पृश्येत । नात्रास्माकमभिनिवेशः । कथं तर्हि तथोत्प्रेक्ष्यत इत्याह- एवं त्वित्यादि । तुशब्दोऽर्थान्तरविवक्षायाम् । एवमतिशयोक्त्या नयनांशुभिः स्पर्शं कर्णोत्पलसिद्धं कृत्वा अर्थान्तरं यथोक्तमुत्प्रेक्ष्यमनिमित्तं परिकल्प्य कविना कथ्यते प्रयुज्यते । ततश्चातिशयोक्तिप्रभावितेयमुत्प्रेक्षा कल्प्यते । अत एवोक्तम्—

अलङ्कारान्तराणामप्याहुरेकं परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ॥ इति ॥
84

  1. २.२१८