कथमिव नास्तीति वैधर्म्यदृष्टान्तेन स्पष्टयन्नाह—

यथेन्दुरिव ते वक्त्रमिति कान्तिः प्रतीयते ।
न तथा लिम्पतौ लेपादन्यदत्र प्रतीयते ॥ २३० ॥

इन्दुरिव ते वक्त्रमिति प्रयोगे कान्तिरुभयोः समो गुणः प्रतीयते दृश्यते यथा तथा तद्वत् । लिम्पतौ लेपनकर्तरि लेपाद्धर्मादन्यत्र । धर्मान्तरं तमस्तुल्यं न प्रतीयते, यत उपमा स्यात् । लेपस्तु लिम्पतावेव वर्तते न तमसीति किमाश्रयेयमुपमा स्यात् ॥