68a यत्र उक्तौ तामेवंलक्षणामुत्प्रेक्षां विदुः विदन्ति कथयन्ति कवयः । उत्प्रेक्ष्यते अन्यथाक्रियते वस्तुस्थितिः अस्याम् अनया इति वा उत्प्रेक्षा । यथेत्युदाहरति ॥

मध्यन्दिनार्कसन्तप्तः सरसीं गाहते गजः ।
मन्ये मार्तण्डगृह्याणि पद्मान्युद्धर्तुमुत्सुकः ॥ २२० ॥