139 मध्यन्दिने मध्याह्ने अर्कः मार्तण्डः अतिप्रचण्डः । तेन सन्तप्तः दग्धो गजः तत्प्रतीकारकाङ्क्षी सरसीं जलाशयं गाहते प्रविशति इति यथावस्थितेयं चेतनस्य गजलक्षणस्य वस्तुनो वृत्तिरुक्ता । सेयमन्यथा स्थितस्य अन्यथा उत्प्रेक्षा । मार्त्तण्डस्य येन सन्तप्तः [तस्य] गृह्याणि पक्षाणि तत्पादोपजीवित्वात् पद्मानि उद्धर्तुम् उन्मूलयितुम् उत्सुकः समीहते गजः । यतः साक्षादपकर्तुम् अशक्तौ तदाश्रितापकारद्वारेणापि स एव प्रत्यपकृतः स्यात् । कृतसंतापसंपर्कः सुतरा[म]र्क इति ॥

तद् व्याचष्टे—

स्नातुं पातुं बिसान्यत्तुं करिणो जलगाहनम् ।
तद्वैरनिष्क्रयायेति कविनोत्प्रेक्ष्य वर्ण्यते ॥ २२१ ॥

स्नातुममन्दबहिस्ताग्शान्तये । पातुम् उदकम् । बिसान्यत्तं मृणालानि कषयितुम् अन्तस्तप्तेः क्षुत्तर्षलक्षणायाः परिक्षयार्थम् । करिणो मध्यन्दिनार्कसन्तप्तस्य जले जलस्य वा गाहनं सरःप्रवेशो वर्तते । यथास्थितेयं वस्तुनश्चेतनस्य वृत्तिः कीर्त्तिता । तत् तादृशं जलगाहनं वैरस्य सूर्यसन्तापकारिण्यपकाराशयस्य निष्क्रयाय तत्पक्षपद्मोद्धरणद्वारेण प्रतिकरणार्थम् इति एवम् अन्यथोत्प्रेक्ष्य अध्यारोप्य वर्ण्यते कथ्यते कविना यथा रसावहं भवतीति ॥

कर्णस्य भूषणमिदं ममायतिनिरोधिनः ।
इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घ्यते ॥ २२२ ॥

आयताक्षि ! तव दृष्ट्या लोललोचनेन कर्णोपान्तपातिन्या विजृम्भमाणकान्तिद्वारेण कर्णोत्पलं श्रवणावतंसकुवलयं विलङ्घ्यते तिरस्क्रियते, तत्कान्त्या लङ्घनसम्भावनया तथेत्युक्तम् । यद् वक्ष्यति । दृष्टेरंशुभिः स्पृश्येत न वेति २. २२३ । किमित्येवं क्रियते ? ममायतिः विजृम्भणं तत्प्रसरं निरुन्धानस्य विघ्नयतः कर्णस्यापकारिणो भूषणं शोभाकरमिदमुत्पलं तन्मया लङ्घनीयम् इति कृत्वा । प्रायःशब्द इत्युत्प्रेक्षां सूचयति । अत्राचेतनस्य नयनांशुलक्षणस्य वस्तुनोऽन्यथास्थिता वृत्तिरन्यथोत्प्रेक्ष्य वर्ण्यत इति ॥

नन्वत्र न तव दृष्ट्या कर्णोत्पलं स्पृश्यते नापि तत्कान्त्या, तथाप्यदर्शनात् । तत्कथमुत्प्रेक्ष्यते ? पूर्वत्र तु तथा जलगाहनदर्शनात्