71a कुतश्चित्प्रतिपादक इति कारकज्ञापकौ हि भुवि ज्ञेयौ । तौ च कारकज्ञापकौ । नैको विचित्रो विधः प्रकारो ययोरिति नैकविधौ भवतः । जन्यकार्यवैचित्र्यात् । यथेत्युदाहरति ॥

अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः ।
उत्पादयति सर्वत्र प्रीतिं मलयमारुतः ॥ २३४ ॥