146 अयमनुभूयमानो मलयमारुतो दक्षिणोऽनिलः सर्वत्र लोकस्य प्रीतिं प्रमोदमुत्पादयति करोति । किंविशिष्टः ? आन्दोलितानि आकम्पितानि अप्रौढ़ानि अभिनवानि चन्दनद्रुमाणां पल्लवानि येन स तादृशः सुरभिः शिशिरो मृदुश्च उत्पादयति इति प्रकृतम् ॥

ननु किमत्र भूषणम् ? केवलमनेनैतत् क्रियते इति स्वरूपकथनमात्रम् । विशेषस्तु न कश्चित् । विशेषरूपश्चालङ्कार इति विशेषं योजयन्नाह—

प्रीत्युत्पादनयोग्यस्य रूपस्यात्रोपबृंहणम् ।
अलङ्कारतयोद्दिष्टं निवृत्तावपि तत् समम् ॥ २३५ ॥

प्रीतेरुत्पादने करणे योग्यास्यानुरूपस्य स्वभावस्यान्दोलितेत्यादिनोद्भावितस्य सुरभित्वादेरुपबृंहणं प्रतिसंस्करणं यदेतत्, तदत्र प्रयोगेऽ[लं]कारतया काव्यभूषणरूपेण उद्दिष्टं विवक्षितं विशेषरूपत्वात् । न पुनरनेनैतत् क्रियते इत्यर्थमात्रं तस्य अलङ्कार्यत्वात् । अयं भावकार्यः कारकहेतुरपाकृतः, प्रीतिसत्ताकरणात् । यदेतद्भावकारि दर्शितं रूपं तदिदं निवत्तावभावेऽपि कार्य न केवलं भावे । समं तुल्यम्, अभावस्यापि कस्यचित् तेन करणादिति ॥

तददाहरति—

चन्दनारण्यमाधूय स्पृष्ट्वा मलयनिर्झरान् ।
पथिकानामभावाय पवनोऽयमुपस्थितः ॥ २३६ ॥

चन्दनानामरण्यं वनमाधूय आन्दोलयित्वा सौरभ्यं मान्द्यं चानेन सूचितम् । शैत्यमुद्भावयति- मलये महीधरे निर्भ्करान् सानुदेशपातिनी वारिधाराः स्पष्ट्वा आमृश्य अयं दक्षिणः पवनो मनोहरः पथिकानां विरहिणामभावाय निधनार्थमुपस्थितो विजम्भत इति ॥

कथमेवंप्रीतिकरो मारुतो मृत्यवे भवतीत्याह—

अभावसाधनायालमेवंभूतो हि मारुतः ।
विरहज्वरसम्भूतमनोज्ञारोचके जने ॥ २३७ ॥