सूक्ष्ममालक्षयन्नाह—

इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात् सूक्ष्म इति स्मृतः ॥ २५८ ॥

संप्रति सूक्ष्मो लक्ष्यते । इङ्गितं कस्यचिदन्तर्गस्य भावस्य ज्ञापनार्थं तादृशि प्रस्तावे बुद्धिपूर्वकं क्रियमाणं तादृशं कायिकं चेष्टितम् । आकारस्तु स्वयमेव भावानुरूपमाविर्भवन् तत्सूचकमवस्थान्तरं शरीरस्येत्यनयोर्भेदः । ताभ्यां लक्ष्यो गम्योऽर्थः कश्चिदन्तर्मात्राधिरूढः सुरतोत्सवादिः सूक्ष्मः इति स्मृतो विज्ञायते तज्ज्ञैः । कुतः ? शब्दालोकातिवर्तिनो वस्तुनः कायविज्ञप्तिमात्रेण तादृशेन लक्ष्यतया सौक्ष्म्यात् सूक्ष्मत्वात् तथाविधैरेव ग्रहणादिति ॥