आकारसूक्ष्ममुदाहरन्नाह—

त्वदर्पितदृशस्तस्या गीतगोष्ठ्यामवर्धत ।
उद्दामरागतरला छाया कापि मुखाम्बुजे ॥ २६१ ॥

गीतलक्षणगोष्ठी विनोदस्तस्यां त्वयि अर्पिता व्यापारिता दृक् दृष्टिः यस्या यया वा तस्या मुखाम्बुजे कान्त्यादिना उद्दामेन उदीर्णेन रागेण रत्यभिप्रायेण तरला उज्ज्वला रक्तच्छाया कान्तिः कापि विशिष्टा या निधुवनानन्दोत्सवमन्तर्वर्तिनमाविष्करोति । अवर्धन व्यजृम्भत । अयमाकारसूक्ष्मो निर्दिष्टः, तादृशो मुखच्छायायाः स्वयमेव तथाविधाभिप्रायवशादबुद्धिपूर्वमाविर्भावादिति ॥