156 आकीर्णे जनसंबाधे स्थाने नौ आवयोः सङ्गमो योगः कदा कस्यां वेलायां भावी भविष्यतीति वक्तुं वाचा प्रतिपादयितुं भयत्रपिष्णुतया अक्षमम् अशक्तं कान्तं रमणम् आकारात् तथाविधादवेत्य ज्ञात्वा लीलार्थं पद्मं विभ्रमकमलं करतलगतं न्यमीलयत् अबला काचिद् विलासिनीति ॥

तद् विवृणोति—

पद्मसंमीलनादत्र सूचितो निशि सङ्गमः ।
आश्वासयितुमिच्छन्त्या प्रियमङ्गजपीडितम् ॥ २६० ॥

अत्र प्रयोगे निशि रात्रौ संगमः सुरतरूपः संकल्पात्मना सूक्ष्मो व्यवस्थितः, पद्मस्य संमीलनात् । मुकुलीकरणात् इङ्गितविशेषान्निमित्तात् । सूचितः प्रकाशितः । कान्तस्य किमेवं स्यादित्याह- आश्वासयितुमित्यादि । प्रियं वल्लभमङ्गजेन कामेन पीड़ितमाकुलीकृतम् इङ्गितग्रहणे निपुणं भावसमर्पणेनाश्वासयितुमाशापत्रिकादानेन व्यवस्थापयितुमिच्छन्त्या बालया