लेशमादर्शयन्नाह- यो लव इत्युद्दिष्टः—

लेशो लेशेन निर्भिन्नवस्तुरूपनिगूहनम् ।
उदाहरण एवास्य रूपमाविर्भविष्यति ॥ २६३ ॥

निर्भिन्नस्याकारात् तादृशात् कुतश्चित् प्रकटीभूतस्य वस्तुरूपस्यार्थात्मनः कस्यचिदनुरागादेर्लेशेन व्याजेन केनचित् निगूहनं कथञ्चित्संवरणमित्यनूद्य लेशो विधीयते । एवमप्यनभिव्यक्तस्वभाव इत्याह- उदाहरणे लक्ष्य एवास्य रूपं स्वभाव आविर्भविष्यति प्रकटती यास्यति । ततस्तत्रैव परिस्फुटमवगम्यतामिति ॥