आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम् ।
अक्षि मे पुष्परजसा वातोद्धृतेन दूषितम् ॥ २६५ ॥

कन्यकां पतिम्वरां दृष्ट्वैव दर्शनसमनन्तरमेवानन्दजनितमश्रु हर्षवाष्पः प्रवृत्तं जातं मे । कथमेतदयुक्तं बत संवृत्तमिति निर्भिन्नस्य वस्तुनोऽनुरागस्य लेशेन निगूहनमिदं क्रियते । आ ज्ञातमक्षि मे पुष्पाणां रजसा रेणुना वातैरुद्धूतेन प्रेरितेन दूषितमुपद्रुतम् इति अश्रुपातस्य रजोदूषणादपि सम्भवात् संवृत्तो लेशेन भावस्तादृश इति ॥

तामनुस्मृत्य पद्माक्षीमक्षि वाष्पायते मम ।
श्रोत्रं सुभाषितानन्दममन्दमभिनन्दति ॥

इत्यपरमुदारहणम् ॥