लेशप्रकारमुपसंहृत्य प्रकारान्तरमस्य दर्शयन्नाह—

इत्येवमादिस्थानेऽयमलङ्कारोऽतिशोभते ।
लेशमेके विदुर्निन्दां स्तुतिं वा लेशतः कृताम् ॥ २६६ ॥

इत्येवंरूपमनन्तरोक्तं राजकन्यादर्शनादि यस्य रागनिगूहनादेस्यस्मिन् स्थाने प्रस्तावे अयमलङ्कारो लेशः अतिशोभते, तस्यात्यन्तसुन्दरत्वात् इति स्वमतमुपसंहृतम् । एके अन्ये पुनर्निन्दां दोषोक्तिं लेशतो व्याजेन कथञ्चित् कृतां तादृशविषयां स्तुतिं वा गुणाविष्क्रियामीषत्प्रयुक्तां लेशं विदुः स्मरन्ति । अ[य]मपरो लेशप्रकार इति ॥