159

नन्वत्र सर्वथा गुण एव प्रतीयते नतु कश्चिद् दोषो यतो लेशतो निन्दा स्यादित्यत आह—

वीर्योत्कर्षस्तुतिर्निन्दैवास्मिन् भावनिवृत्तये ।
कन्यायाः कल्पते भोगान्निर्विविक्षोर्निरन्तरान् ॥ २६८ ॥

वीर्यस्य विक्रमस्योत्कर्षोऽधिमात्राता तस्य स्तुतिः वर्णनं निन्दैव दोषोक्तिरेव जायते । कथम् ? यतः कन्याया निरन्तरानविच्छेदवर्तिनो भोगान्