76a सुरतसुखानि विविक्षोरनुबुभूषोः सम्बन्धिनो भावस्य स्वीकाराभिप्रायस्यास्मिन् यथोपवर्णिते पुंसि तन्मनोरथप्रतिकूलवर्तिनि विषये वैमुख्याय कल्पते । ततो निन्दैवेयं जाता स्तुतिः, अन्यथा भावनिवृत्ययोगात् । नहि गुणवत्तया प्रतीतः परित्यज्यते किं तु दोषवानेव । तथा असौ अलीकरणरागव्यसनी सुरतसमरमहोत्सवपराङ्मुखः प्रतीतो यतस्तं विभावयतीति निन्दैवेयं लेशतः कृतेति ॥

[मुग्धो] नराधिपः सोऽयं निर्विकारः सुमेरुवत् ।
आश्रितानामपि क्लेशैर्व्यथते यो न जातुचित् ॥

इत्यपरमुदाहरणम् ॥

चपलो निर्दयश्चासौ जनः किं तेन मे सखि ।
आगःप्रमार्जनायैव चाटवो येन शिक्षिताः ॥ २६९ ॥

चपलो दुर्विनीतः यत्किञ्चनकारी निर्दयः क्ररश्च । किं तेनैवं दुःखदायिना जनेन निर्गुणेन ? पुनस्तादृश एवासौ येनागसामपराधानां प्रतिक्षणभाविनामात्मीयानां प्रमार्जनाय परिशोधनार्थमेव केवलम्, नानुग्रहाय कस्मैचित्तादृशाय चाटवोऽनेकविधा लोलनप्रकाराः शिक्षिताः स्वभ्यस्ताः । किं तेन चाटुचुञ्चुटनेति निगमनीयम् ॥

ननु दोष एवात्र सर्वथोक्तो न गुणः क्वचित् यतो लेशतः स्तुतिः स्यात् इत्यत आह—

दोषाभासो गुणः कोऽपि दर्शितश्चाटुकारिता ।
मानं सखीजनोद्दिष्टं कर्तुं रागादशक्तया ॥ २७० ॥